श्री विषापहार स्तोत्र लिरिक्स | Shree Vishaphar Stotra Lyrics

Vishaphar Stotra Lyrics

Vishapahar Stotram

स्वात्मस्थित: सर्वगत: समस्त,
व्यापारवेदी विनिवृत्तसङ्ग:।
प्रवृद्धकालोप्यजरो वरेण्य:,
पायादपायात्पुरुष: पुराण: ॥१॥

परैरचिन्त्यं युगभारमेक:,
स्तोतुं वहन्योगिभिरप्यशक्य:।
स्तुत्योऽद्य मेऽसौ वृषभो न भानो:,
किमप्रवेशे विशति प्रदीप: ॥२॥

तत्त्याज शक्र: शकनाभिमानं,
नाहं त्यजामि स्तवनानुबन्धम्।
स्वल्पेन बोधेन ततोऽधिकार्थं,
वातायनेनेव निरूपयामि ॥३॥

त्वं विश्वदृश्वा सकलैरदृश्यो,
विद्वानशेषं निखिलैरवेद्य:।
वक्तुं कियान्कीदृश इत्यशक्य:,
स्तुतिस्ततोऽशक्तिकथा तवास्तु ॥४॥

व्यापीडितं बालमिवात्मदोषै-
रुल्लाघतां लोकमवापिपस्त्वम्।
हिताहितान्वेषण मान्द्यभाज: ,
सर्वस्य जन्तोरसि बालवैद्य: ॥५॥

दाता न हर्ता दिवसं विवस्वा-
नद्यश्व इत्यच्युतदर्शिताश:।
सव्याजमेवं गमयत्यशक्त:,
क्षणेन दत्सेऽभिमतं नताय ॥६॥

उपैति भक्त्या सुमुखः सुखानि,
त्वयि स्वभावाद्विमुखश्च दु:खं।
सदावदातद्युतिरेकरूप -
स्तयोस्त्वमादर्श इवावभासि ॥७॥

अगाधताब्धे: स यत: पयोधिर्
मेरोश्च तुङ्गा प्रकृति: स यत्र।
द्यावा पृथिव्यो: पृथुता तथैव,
व्याप त्वदीया भुवनान्तराणि ॥८॥

तवानवस्था परमार्थतत्त्वं,
त्वया न गीत: पुनरागमश्च।
दृष्टं विहाय त्वमदृष्टमैषीर्
विरुद्धवृत्तोऽपि समञ्जसस्त्वम् ॥९॥

स्मर: सुदग्धो भवतैव तस्मिन्,
नुद्धूलितात्मा यदि नाम शम्भु:।
अशेत वृन्दोपहतोऽपि विष्णु:,
किं गृह्यते येन भवानजाग: ॥१०॥

स नीरजा: स्यादपरोऽघवान्वा,
तद्दोषकीत्र्यैव न ते गुणित्वं।
स्वतोऽम्बुराशेर्महिमा न देव!,
स्तोकापवादेन जलाशयस्य ॥११॥

कर्मस्थितिं जन्तुरनेक भूमिं,
नयत्यमुं सा च परस्परस्य।
त्वं नेतृभावं हि तयोर्भवाब्धौ,
जिनेन्द्र! नौनाविकयोरिवाख्य: ॥१२॥

सुखाय दु:खानि गुणाय दोषान्,
धर्माय पापानि समाचरन्ति।
तैलाय बाला: सिकतासमूहं,
निपीडयन्ति स्फुटमत्वदीया: ॥१३॥

विषापहारं मणिमौषधानि,
मन्त्रं समुद्दिश्य रसायनं च।
भ्राम्यन्त्यहो न त्वमिति स्मरन्ति,
पर्यायनामानि तवैव तानि ॥१४॥

चित्ते न किञ्चित्कृतवानसि त्वं
देव: कृतश्चेतसि येन सर्वम्।
हस्ते कृतं तेन जगद्विचित्रं
सुखेन जीवत्यपि चित्तबाह्य: ॥१५॥

त्रिकालतत्त्वं त्वमवैस्त्रिलोकी,
स्वामीतिसंख्यानियतेरमीषाम् ।
बोधाधिपत्यं प्रति नाभविष्यं-,
स्तेऽन्येऽपि चेद्वयाप्स्यदमूनपीदम् ॥१६॥

नाकस्य पत्यु: परिकर्म रम्यं,
नागम्यरूपस्य तवोपकारि।
तस्यैव हेतु: स्वसुखस्य भानो-,
रुद्विभ्रतच्छत्रमिवादरेण ॥१७॥

क्वोपेक्षकस्त्वं क्व सुखोपदेश:
स चेत्किमिच्छा प्रतिकूलवाद:।
क्वासौ क्व वा सर्वजगत्प्रियत्वं
तन्नो यथातथ्यमवेविचं ते ॥१८॥

तुङ्गात्फलं यत्त दकिंचनाच्च
प्राप्यं समृद्धान्न धनेश्वरादे:।
निरम्भ-सोऽप्युच्चतमादिवाद्रेर्,
नैकापि निर्याति धुनी पयोधे: ॥१९॥

त्रैलोक्यसेवानियमाय दण्डं
दध्रे यदिन्द्रो विनयेन तस्य।
तत्प्रातिहार्यं भवत: कुतस्त्यं
तत्कर्मयोगाद्यदि वा तवास्तु ॥२०॥

श्रिया परं पश्यति साधु नि:स्व:,
श्रीमान्न कश्चित्कृपणं त्वदन्य:।
यथा प्रकाशस्थितमन्धकार-,
स्थायीक्षतेऽसौ न तथा तम:स्थम् ॥२१॥

स्व वृद्धिनि:श्वासनिमेषभाजि
प्रत्यक्षमात्मानुभवेऽपि मूढ:।
किं चाखिलज्ञेयविवर्तिबोध-,
स्वरूपमध्यक्षमवैति लोक: ॥२२॥

तस्यात्मजस्तस्य पितेति देव!,
त्वां येऽवगायन्ति कुलं प्रकाश्य।
तेऽद्यापि नन्वाश्मनमित्यवश्यं,
पाणौ कृतं हेम पुनस्त्यजन्ति ॥२३॥

दत्तस्त्रिलोक्यां पटहोऽभिभूता:,
सुरासुरास्तस्य महान्स लाभ:।
मोहस्य मोहस्त्वयि को विरोद्धु-
र्मूलस्य नाशो बलवद्विरोध: ॥२४॥

मार्गस्त्वयैको ददृशे विमुक्तेश् ,
चतुर्गतीनां गहनं परेण।
सर्वं मया दृष्टमिति स्मयेन
त्वं मा कदाचिद्भुजमालुलोक: ॥२५॥

स्वर्भानुरर्कस्य हविर्भुजोऽम्भ:,
कल्पान्तवातोऽम्बुनिधेर्विघात: ।
संसारभोगस्य वियोगभावो
विपक्षपूर्वाभ्युदयास्त्वदन्ये ॥२६॥

अजानतस्त्वां नमत: फलं
यत्तज्जानतोऽन्यं न तु देवतेति।
हरिन्मणिं काचधिया दधानस्,
तं तस्य बुद्ध्या वहतो न रिक्त: ॥२७॥

प्रशस्तवाचश्चतुरा: कषायैर्,
दग्धस्य देवव्यवहारमाहु:।
गतस्य दीपस्य हि नन्दितत्वं,
दृष्टं कपालस्य च मङ्गलत्वम् ॥२८॥

नानार्थमेकार्थमदस्त्वदुक्तं ,
हितं वचस्ते निशमय्य वक्तु:।
निर्दोषतां के न विभावयन्ति,
ज्वरेण मुक्त: सुगम: स्वरेण ॥२९॥

न क्वापि वाञ्छा ववृते च वाक्ते,
काले क्व चित्कोऽपि तथा नियोग:।
न पूरयाम्यम्बुधिमित्युदंशु:,
स्वयं हि शीतद्युतिरभ्युदेति ॥३०॥

गुणा गभीरा: परमा: प्रसन्ना,
बहुप्रकारा बहवस्तवेति।
दृष्टोऽयमन्त: स्तवनेन तेषां,
गुणो गुणानां किमत: परोऽस्ति ॥३१॥

स्तुत्या परं नाभिमतं हि भक्त्या
स्मृत्या प्रणत्या च ततो भजामि।
स्मरामि देवं प्रणमामि नित्यं
केनाप्युपायेन फलं हि साध्यम् ॥३२॥

ततस्त्रिलोकी नगराधिदेवं ,
नित्यं परं ज्योतिरनन्तशक्तिम्।
  अपुण्यपापं परपुण्यहेतुं
नमाम्यहं वन्द्यमवन्दितारम् ॥३३॥

अशब्दमस्पर्शमरूपगन्धं
त्वां नीरसं तद्विषयावबोधम्।
सर्वस्य मातारममेयमन्यैर्,
जिनेन्द्रमस्मार्यमनुस्मरामि ॥३४॥

अगाधमन्यैर्मनसाप्यलंघ्यं ,
निष्किञ्चनं प्रार्थितमर्थवद्भि:।
विश्वस्य पारं तमदृष्टपारं,
पतिं जनानां शरणं व्रजामि ॥३५॥

त्रैलोक्यदीक्षागुरवे नमस्ते
यो वर्धमानोऽपि निजोन्नतोऽभूत्।
प्राग्गण्डशैल: पुनरद्रिकल्प:
पश्चान्न मेरु: कुलपर्वतोऽभूत् ॥३६॥

स्वयं प्रकाशस्य दिवा निशा वा,
न बाध्यता यस्य न बाधकत्वम्।
न लाघवं गौरवमेकरूपं,
वन्दे विभुं कालकलामतीतम् ॥३७॥

इति स्तुतिं देव विधाय दैन्या-
द्वरं न याचे त्वमुपेक्षकोऽसि।
छाया तरुं संश्रयत: स्वत: स्यात्,
कश्छायया याचितयात्मलाभ: ॥३८॥

अथास्ति दित्सा यदि वोपरोध-
स्त्वय्येव सक्तां दिश भक्तिबुद्धिम्।
करिष्यते देव तथा कृपां मे
को वात्मपोष्ये सुमुखो न सूरि: ॥३९॥

वितरति विहिता यथाकथञ्चि-
ज्जिन विनताय मनीषितानि भक्ति:।
त्वयि नुतिविषया पुनर्विशेषा-
द्दिशति सुखानि यशो धनंजयं च ॥४०॥

Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now