प्रश्नोत्तर रत्नमालिका लिरिक्स | Prashnottar Ratnamalika Lyrics

Eng_Text

Prashnottar Ratnamalika Lyrics

प्रणिपत्य वर्धमानं प्रश्नोत्तर-रत्नमालिकां वक्ष्ये।
नागनरामरवन्द्यं देवं देवाधिपं वीरम् ॥ १॥

 क: खलु नालंक्रियते दृष्टादृष्टार्थ-साधनपटीयान्।
कण्ठस्थितया विमल-प्रश्नोत्तर-रत्नमालिकया॥ २॥

भगवन् कि मुपादेयं गुरुवचनं हेयमपि च किमकार्यम्।
को गुरुरधिगततत्त्व: सत्त्वहिताभ्युद्यत: सततम्॥ ३॥

त्वरितं किं कत्र्तव्यं विदुषा संसार-सन्ततिच्छेद:।
किं मोक्ष तरोर्बीजं सम्यग्ज्ञानं क्रियासहितम् ॥ ४॥

किं पथ्यदनं धर्म: क: शुचिरिह यस्य मानसं शुद्धम्।
क: पण्डितो विवेकी किं विषमवधीरिता गुरव:॥ ५॥

किं संसारे सारं बहुशोऽपि विचिन्त्यमानमिदमेव।
मनुजेषु दृष्टतत्त्वं स्वपरहितायोद्यतं जन्म॥ ६॥

मदिरेव मोहजनक: क: स्नेह: के च दस्यव: विषया:।
का भव वल्ली तृष्णा को वैरी नन्वनुद्योग:॥ ७॥

कस्माद्भयमिह मरणादन्धादपि को विशिष्यते रागी।
क: शूरो यो ललनालोचनवाणै र्न च व्यथित: ॥ ८॥

पातुं कर्णाञ्जलिभि: किममृतमिव बुध्यते सदुपदेश:।
किं गुरुताया मूलं यदेतदप्रार्थनं नाम ॥ ९॥

किं गहनं स्त्रीचरितं कश्चतुरो यो न खण्डितस्तेन।
किं दारिद्र्यमसंतोष एवं किं लाघवं याञ्चा ॥ १०॥

किं जीवितमनवद्यं किं जाड्यं पाटवेऽप्यनभ्यास:।
को जागर्ति विवेकी का निद्रा मूढता जन्तो:॥ ११॥

नलिनीदलगतजललव-तरलं किं यौवनं धनमथायु:।
के शशधरकरनिकरा-नुकारिण: सज्जना एव॥१२॥

को नरक: परवशता किं सौख्यं सर्वसंगविरतिर्या।
किं सत्यं भूतहितं किं प्रेय: प्राणिनामसव:॥१३॥

किं दानमनाकाङ्क्षं किं मित्रं यन्निवर्तयति पापात्।
कोऽलंकार: शीलं, किं वाचां मण्डनं ! सत्यम्॥१४॥

किमनर्थफलं मानसमसंगतं का सुखावहा मैत्री।
सर्वव्यसनविनाशे को दक्ष: सर्वथा त्याग:॥ १५॥

कोऽन्धो योऽकार्यरत: को बधिरो य: शृणोति न हितानि।
को मूको य: काले प्रियाणि वक्तुं न जानाति॥ १६॥

किं मरणं मूर्खत्वं किं चानर्घ्यं यदवसरे दत्तम्।
आमरणात्किं शल्यं प्रच्छन्नं यत्कृतमकार्यम्॥ १७॥

कुत्र विधेयो यत्नो विद्याभ्यासे सदौषधे दाने।
अवधीरणा क्व कार्या खल परयोषित्परधनेषु॥ १८॥

काहर्निशमनुचिन्त्या संसारासारता न च प्रमदा।
का प्रेयसी विधेया करुणादाक्षिण्यमपि मैत्री॥ १९॥

कण्ठगतैरप्यसुभि: कस्यात्मा नो समप्र्यते जातु।
मूर्खस्य विषादस्य च गर्वस्य तथा कृतघ्नस्य॥ २०॥

क: पूज्य: सद्वृत्त: कमधनमाचक्षते चलितवृत्तम्।
केन जितं जगमेतत् सत्यतितिक्षावता पुंसा॥ २१॥

कस्मै नम: सुरैरपि सुतरां क्रियते दयाप्रधानाय।
कस्मादुद्विजितव्यं संसारारण्यत: सुधिया॥ २२॥

कस्य वशे प्राणिगण: सत्यप्रियभाषिणो विनीतस्य।
क्व स्थातव्यं न्याय्ये पथि दृष्टादृष्टलाभाय॥ २३॥

विद्युत्विलसितचपलं किं दुर्जनं संगतं युवतयश्च।
कुलशैलनिष्प्रकम्पा: के कलिकालेऽपि सत्पुरुष:॥ २४॥

किं शोच्यं कार्पण्यं सति विभवे किं प्रशस्यमौदार्यम्।
तनुतरवित्तस्य तथा प्रभविष्णोर्यत्सहिष्णुत्वम्॥ २५॥

चिन्तामणिरिव दुर्लभ-मिह ननु कथयामि चतुर्भद्रम्।
किं तद्वदन्ति भूयो विधूत तमसो विशेषेण॥ २६॥

दानं प्रियवाक्सहितं ज्ञानमगर्वं क्षमान्वितं शौर्यम्।
त्यागसहितं च वित्तं दुर्लभमेतच्चतुर्भद्रम् ॥ २७॥

इति कण्ठगता विमला प्रश्नोत्तर-रत्नमालिका येषाम्।
ते मुक्ताभरणा अपि विभान्ति विद्वत्समाजेषु॥ २८॥

विवेकात्यक्तराज्येन राज्ञेयं रत्नमालिका।
रचितोऽमोघवर्षेण सुधियां सदलंकृति:॥ २९॥



Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now