इष्टोपदेश लिरिक्स | Istopadesh Lyrics

Istopadesh Lyrics

Ishtopadesh Lyrics

यस्य स्वयं स्वाभावाप्ति, रभावे कृत्स्नकर्मण:
तस्मै संज्ञान-रूपाय नमोऽस्तु परमात्मने ॥१॥

 योग्योपादानयोगेन, दृषद: स्वर्णता मता
द्रव्यादिस्वादिसंपत्तावात्मनोऽप्यात्मता मता ॥२॥

वरं व्रतै: पदं दैवं, नाव्रतैर्वत नारकम्
छायातपस्थयो र्भेद: प्रतिपालयतोर्महान् ॥३॥

यत्र भाव: शिवं दत्ते, द्यौ: कियद्दूरवर्तिनी
यो नयत्याशु गव्यूतिं क्रोशार्धे किं स सीदति ॥४॥

हृषीकज -मनातङ्कं दीर्घ - कालोपलालितम्
नाके नाकौकसां सौख्यं, नाके नाकौकसामिव ॥५॥

वासनामात्र-मेवैतत् सुखं दु:खं च देहिनाम्
तथा ह्युद्वेजयन्त्येते, भोगा रोगा इवापदि ॥६॥

मोहेन संवृतं ज्ञानं, स्वभावं लभते न हि 
मत्त: पुमान् पदार्थानां यथा मदन-कोद्रवै: ॥७॥

वपुर्गृहं धनं दारा:, पुत्रा मित्राणि शत्रव:
सर्वथान्यस्वभावानि, मूढ: स्वानि प्रपद्यते ॥८॥

दिग्देशेभ्य: खगा एत्य, संवसन्ति नगे नगे
स्वस्वकार्यवशाद्यान्ति, देशे दिक्षु प्रगे प्रगे ॥९॥

विराधक: कथं हन्त्रे जनाय परिकुप्यति
त्र्यड्.गुलं पातयन् पद्भ्यां स्वयं दण्डेन पात्यते ॥१०॥

रागद्वेषद्वयीदीर्घ - नेत्राकर्षण- कर्मणा
अज्ञानात्सुचिरं जीव:, संसाराब्धौ भ्रमत्यसौ ॥११॥

विपद्भवपदावर्ते पदिकेवातिवाह्यते
यावत्तावद्भवन्त्यन्या: प्रचुरा विपद: पुर: ॥१२॥

दुरर्ज्येनासुरक्षेणनश्वरेणधनादिना |
स्वस्थंमन्यो जनः कोऽपि ज्वरवानिव सर्पिषा ॥१३॥

विपत्तिमात्मनो मूढ:, परेषामिव नेक्षते
दह्यमान-मृगाकीर्णवनान्तर - तरुस्थवत् ॥१४॥

आयुर्वृद्धिक्षयोत्कर्ष-, हेतुं कालस्य निर्गमम्
वाञ्छतां धनिनामिष्टं, जीवितात्सुतरां धनम् ॥१५॥

त्यागाय श्रेयसे वित्तमवित्त: सञ्चिनोति य:
स्वशरीरं स पङ्केन, स्नास्यामीति विलिम्पति ॥१६॥

आरम्भे तापकान् प्राप्तावतृप्तिप्रतिपादकान् 
अन्ते सुदुस्त्यजान् कामान् कामं क: सेवते सुधी: ॥१७॥

भवन्ति प्राप्य यत्सङ्गमशुचीनि शुचीन्यपि 
स काय: सन्ततापायस्तदर्थं प्रार्थना वृथा ॥१८॥

यज्जीवस्योपकाराय, तद्देहस्यापकारकम्
यद्देहस्योपकाराय, तज्जीवस्यापकारकम् ॥१९॥

इतश्चिन्तामणिर्दिव्य इत: पिण्याकखण्डकम्
ध्यानेन चेदुभे लभ्ये क्वाद्रियन्तां विवेकिन: ॥२०॥

स्वसंवेदन सुव्यक्तस्तनुमात्रो निरत्यय:
अत्यन्तसौख्यवानात्मा, लोकालोकविलोकन: ॥२१॥

संयम्य करणग्राममेकाग्रत्वेन चेतस:
आत्मानमात्मवान् ध्यायेदात्मनैवात्मनि स्थितम् ॥२२॥

अज्ञानोपास्तिरज्ञानं, ज्ञानं ज्ञानिसमाश्रय:
ददाति यत्तु यस्यास्ति, सुप्रसिद्धमिदं वच: ॥२३॥

परीषहाद्यविज्ञानादास्रवस्य निरोधिनी
जायतेऽध्यात्मयोगेन, कर्मणामाशु निर्जरा ॥२४॥

कटस्य कत्र्ताहमिति, सम्बन्ध: स्याद् द्वयोद्र्वयो:
ध्यानं ध्येयं यदात्मैव, सम्बन्ध: कीदृशस्तदा ॥२५॥

बध्यते मुच्यते जीव:, सममो निर्मम:क्रमात्
 तस्मात्सर्वप्रयत्नेन, निर्ममत्वं विचिन्तयेत् ॥२६॥

एकोऽहं निर्मम: शुद्धो, ज्ञानी योगीन्द्रगोचर: 
बाह्या:संयोगजा भावा, मत्त: सर्वेऽपि सर्वथा ॥२७॥

दु:खसंदोहभागित्वं, संयोगादिह देहिनाम्
 त्यजाम्येनं तत: सर्वं, मनोवाक्कायकर्मभि: ॥२८॥

न मे मृत्यु: कुतो भीतिर्न मे व्याधि: कुतो व्यथा
नाहं बालो न वृद्धोऽहं, न युवैतानि पुद्गले ॥२९॥

भुक्तोज्झिता मुहुर्मोहान्मया सर्वेऽपि पुद्गला:
उच्छिष्टेष्विव तेष्वद्य, मम विज्ञस्य का स्पृहा ॥३०॥

कर्म कर्म हिताबन्धि, जीवो जीवहितस्पृह:
स्वस्वप्रभावभूयस्त्वे, स्वार्थं को वा न वाञ्छति ॥३१॥

परोपकृतिमुत्सृज्य, स्वोपकारपरो भव
उपकुर्वन्परस्याज्ञो, दृश्यमानस्य लोकवत् ॥३२॥

गुरूपदेशादभ्यासात्संवित्ते: स्वपरान्तरम् 
जानाति य: स जानाति, मोक्षसौख्यं निरन्तरम् ॥३३॥

स्वस्मिन् सदभिलाषित्वादभीष्टज्ञापकत्वत:
स्वयं हितप्रयोक्तृत्वादात्मैव गुरुरात्मन: ॥३४॥

नाज्ञो विज्ञत्वमायाति, विज्ञो नाज्ञत्वमृच्छति
निमित्तमात्र-मन्यस्तु, गतेर्धर्मास्तिकायवत् ॥३५॥

अभवच्चित्तविक्षेप, एकान्ते तत्त्वसंस्थित:
अभ्यस्येदभियोगेन, योगी तत्त्वं निजात्मन: ॥३६॥

यथा यथा समायाति, संवित्तौ तत्त्वमुत्तमम्
तथा तथा न रोचन्ते, विषया: सुलभा अपि ॥३७॥

यथा यथा न रोचन्ते, विषया: सुलभा अपि
तथा तथा समायाति, संवित्तौ तत्त्वमुत्तमम् ॥३८॥

निशामयति निश्शेषमिन्द्रजालोपमं जगत्
स्पृहयत्यात्मलाभाय, गत्वान्यत्रानुतप्यते ॥३९॥

इच्छत्येकान्तसंवासं निर्जनं जनितादर:
निज कार्यवशात्किञ्चिदुक्त्वा विस्मरति द्रुतम् ॥४०॥

ब्रुवन्नपि हि न ब्रूते गच्छन्नपि न गच्छति
स्थिरीकृतात्मतत्त्वस्तु, पश्यन्नपि न पश्यति ॥४१॥

किमिदं कीदृशं कस्य, कस्मात्क्वेत्यविशेषयन्
स्वदेहमपि नावैति योगी योगपरायण: ॥४२॥

यो यत्र निवसन्नास्ते, स तत्र कुरुते रतिम्
यो यत्र रमते तस्मादन्यत्र स न गच्छति ॥४३॥

अगच्छंस्तद्विशेषाणामनभिज्ञश्च जायते
अज्ञाततद्विशेषस्तु, बध्यते न विमुच्यते ॥४४॥

पर: परस्ततो दु:खमात्मैवात्मा तत: सुखम्
अत एव महात्मानस्तन्निमित्तं कृतोद्यमा: ॥४५॥

अविद्वान् पुद्गलद्रव्यं योऽभिनन्दति तस्य तत्
न जातु जन्तो: सामीप्यं,चतुर्गतिषु मुञ्चति ॥४६॥

आत्मानुष्ठाननिष्ठस्य, व्यवहारबहि: स्थिते:
जायते परमानन्द: कश्चिद्योगेन योगिन: ॥४७॥

आनन्दो निर्दहत्युद्धं कर्मेन्धनमनारतम्
न चासौ खिद्यते योगी, बहिर्दु:खेष्वचेतन: ॥४८॥

अविद्याभिदुरं ज्योति:, परं ज्ञानमयं महत्
 तत्प्रष्टव्यं तदेष्टव्यं, तद्द्रष्टव्यं मुमुक्षुभि: ॥४९॥

जीवोऽन्य: पुद्गलश्चान्य इत्यसौ तत्त्वसंग्रह:
यदन्यदुच्यते किञ्चित्सोऽस्तु तस्यैव विस्तर: ॥५०॥

इष्टोपदेशमिति सम्यगधीत्य धीमान्,
मानापमानसमतां स्वमताद्वितन्य ॥
मुक्ताग्रहो विनिवसन् सजने वने वा,
मुक्तिश्रियं निरुपमामुपयाति भव्य: ॥५१॥

इति


Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now