एकीभाव स्तोत्र लिरिक्स | Ekibhaav Stotra Lyrics

Ekibhaav Stotra Lyrics

Ekibhaav Stotram Lyrics

एकीभावं गत इव मया य: स्वयं कर्मबन्धो
घोरं दु:खं भवभव-गतो दुर्निवार: करोति।
तस्याप्यस्य त्वयि जिनरवे! भक्तिरुन्मुक्तये चेत्
जेतुं शक्यो भवति न तया कोऽपरस्तापहेतु:॥ 1॥

ज्योतीरूपं दुरितनिवहध्वांतविध्वंसहेतुं
त्वामेवाहुर्जिनवर ! चिरं तत्त्व - विद्याभियुक्ता:।
चेतोवासे भवसि च मम स्फारमुद्भासमानस्-
तस्मिन्नंह: कथमिव तमो वस्तुतो वस्तुमीष्टे॥ 2॥

आनन्दाश्रु - स्नपितवदनं गद्गदं चाभिजल्पन्
यश्चायेत त्वयि दृढमना: स्तोत्र - मन्त्रैर्भवन्तम्।
तस्याभ्यस्तादपि च सुचिरं देहवल्मीकमध्यान्
निष्कास्यन्ते विविध-विषम-व्याधय: काद्रवेया:॥ 3॥

प्रागेवेह त्रिदिवभवनादेष्यता भव्यपुण्यात्
पृथ्वी-चक्रं कनकमयतां देव ! निन्ये त्वयेदम्।
ध्यान-द्वारं मम रुचिकरं स्वान्त - गेहं प्रविष्टस्-
तत्किं चित्रं जिन! वपुरिदं यत्सुवर्णी-करोषि॥ 4॥

लोकस्यैकस्त्वमसि भगवन् ! निर्निमित्तेन बन्धुस्-
त्वय्येवासौ सकल - विषया शक्ति-रप्रत्यनीका।
भक्तिस्फीतां चिरमधिवसन्मामिकां चित्त-शय्यां
मय्युत्पन्नं कथमिव तत: क्लेश-यूथं सहेथा:॥ 5॥

जन्माटव्यां कथमपि मया देव! दीर्घं भ्रमित्वा
प्राप्तैवेयं तव नय - कथा स्फार - पीयूष - वापी।
तस्या मध्ये हिमकर - हिम - व्यूह - शीते नितान्तं
निर्मग्नं मां न जहति कथं दु:ख-दावोपतापा:॥ 6॥

पाद-न्यासादपि च पुनतो यात्रया ते त्रिलोकी ं
हेमाभासो भवति सुरभि: श्रीनिवासश्च पद्म:।
सर्वाङ्गेण स्पृशति भगवंस्त्वय्यशेषं मनो मे
श्रेय: किं तत्स्वयमहरहर्यन्न मामभ्युपैति ॥ 7॥

पश्यन्तं त्वद्वचनममृतं भक्तिपात्र्या पिबन्तं
कर्मारण्यात् - पुरुष -मसमानन्द-धाम-प्रविष्टम्।
त्वां दुर्वार - स्मर-मद-हरं त्वत्प्रसादैक-भूमिं
क्रूराकारा: कथमिव रुजा कण्टका निर्लुठन्ति॥ 8॥

पाषाणात्मा तदितरसम: केवलं रत्न - मूर्ति-
र्मानस्तम्भो भवति च परस्तादृशो रत्नवर्ग:।
दृष्टि-प्राप्तो हरति स कथं मान-रोगं नराणां
प्रत्यासत्तिर्यदि न भवतस्तस्य तच्छक्ति-हेतु:॥ 9॥

हृद्य: प्राप्तो मरुदपि भवन् मूर्तिशैलोपवाही
सद्य: पुंसां निरवधि - रुजा - धूलि - बन्धं धुनोति।
ध्यानाहूतो हृदय - कमलं यस्य तु त्वं प्रविष्टस्-
तस्याशक्य: क इह भुवने देव! लोकोपकार:॥ 10॥

जानासि त्वं मम भव-भवे यच्च यादृक्च दु:खं
जातं यस्य स्मरणमपि मे शस्त्रवन्निष्पिनष्टि।
त्वं सर्वेश: सकृप इति च त्वामुपेतोऽस्मि भक्त्या
यत्कर्तव्यं तदिह विषये देव एव प्रमाणम्॥ 11॥

प्रापद्दैवं तव नुति - पदैर्जीवकेनोपदिष्टै:
पापाचारी मरणसमये सारमेयोऽपि सौख्यम्।
क: संदेहो यदुपलभते वासव - श्रीप्रभुत्वं
जल्पञ्जाप्यैर्मणिभिरमलैस्त्वन्नमस्कार-चक्रम्॥ 12॥

शुद्धे ज्ञाने शुचिनि चरिते सत्यपि त्वय्यनीचा
भक्तिर्नो चेदनवधि-सुखावञ्चिका कुञ्चिकेयम्।
शक्योद्घाटं भवति हि कथं मुक्ति-कामस्य पुंसो-
मुक्तिद्वारं परिदृढ़-महामोह-मुद्रा-कवाटम्॥ 13॥

प्रच्छन्न: खल्वय-मघ-मयै - रन्धकारै: समन्तात्-
पन्था मुक्ते: स्थपुटित - पद: क्लेश-गर्तैरगाधै:।
तत्कस्तेन व्रजति सुखतो देव! तत्त्वावभासी
यद्यग्रेऽग्रे न भवति भवद् - भारतीरत्न-दीप:॥ 14॥

आत्म-ज्योति- र्निधि- रनवधि - द्र्रष्टुरानन्द-हेतु:
कर्म-क्षोणी-पटल-पिहितो योऽनवाप्य: परेषाम्।
हस्ते कुर्वन्त्यनतिचिरतस्तं भवद् भक्तिभाज:
स्तोत्रैर्बन्ध-प्रकृति-परुषोद्दाम-धात्री-खनित्रै:॥ 15॥

प्रत्युत्पन्ना नय - हिमगिरेरायता चामृताब्धे:
या देव त्वत्पद - कमलयो: सङ्गता भक्ति-गङ्गा।
चेतस्तस्यां मम रुचि - वशादाप्लुतं क्षालितांह:
कल्माषं यद् भवति किमियं देव! सन्देह-भूमि:॥ 16॥

प्रादुर्भूत - स्थिर - पद - सुखत्वामनुध्यायतो मे
त्वय्येवाहं स इति मतिरुत्पद्यते निर्विकल्पा।
मिथ्यैवेयं तदपि तनुते तृप्ति - मभ्रेषरूपां
दोषात्मानोऽप्यभिमतफलास्त्वत्प्रसादाद् भवन्ति॥ 17॥

मिथ्यावादं मल - मपनुदन् - सप्तभङ्गीतरङ्गैर्
वागम्भोधिर्भुवनमखिलं देव ! पर्येति यस्ते।
तस्यावृत्तिं सपदि विबुधाश्चेतसैवाचलेन
व्यातन्वन्त: सुचिर-ममृता-सेवया तृप्नुवन्ति॥ 18॥

आहार्येभ्य: स्पृहयति परं य: स्वभावादहृद्य:
शस्त्र-ग्राही भवति सततं वैरिणा यश्च शक्य:।
सर्वाङ्गेषु त्वमसि सुभगस्त्वं न शक्य: परेषां
तत्किं भूषा-वसन-कुसुमै: किं च शस्त्रैरुदस्त्रै:॥ 19॥

इन्द्र: सेवां तव सुकुरुतां किं तया श्लाघनं ते
तस्यैवेयं भव-लय - करी श्लाघ्यतामातनोति।
त्वं निस्तारी जनन-जलधे: सिद्धिकान्तापतिस्त्वं
त्वं लोकानां प्रभुरिति तव श्लाघ्यते स्तोत्रमित्थम्॥ 20॥

वृत्तिर्वाचा - मपर - सदृशी न त्वमन्येन तुल्य:
स्तुत्युद्गारा: कथमिव ततस्त्वय्यमी न: क्रमन्ते।
मैवं भूवंस्तदपि भगवन्! भक्ति-पीयूष-पुष्टास्-
ते भव्यानामभिमत-फला: पारिजाता भवन्ति॥ 21॥

कोपावेशो न तव न तव क्वापि देव! प्रसादो
व्याप्तं चेतस्तव हि परमोपेक्षयैवानपेक्षम्।
आज्ञावश्यं तदपि भुवनं सन्निधि - र्वैर-हारी
क्वैवंभूतं भुवन-तिलक! प्राभवं त्वत्परेषु॥ 22॥

देव! स्तोतुं त्रिदिव गणिका-मण्डली-गीत-कीर्तिं
तोतूर्ति त्वां सकल-विषय-ज्ञान - मूर्तिं र्जनो य:।
तस्य क्षेमं न पदमटतो जातु जोहूर्ति पन्थास्-
तत्त्वग्रन्थ-स्मरण - विषये नैष मोमूर्ति मत्र्य:॥ 23॥

चित्ते कुर्वन्् निरवधिसुखज्ञानदृग्वीर्यरूप
देव! त्वां य: समय - नियमादादरेण स्तवीति।
श्रेयोमार्गं स खलु सुकृती तावता पूरयित्वा
कल्याणानां भवति विषय: पञ्चधा पञ्चितानाम्॥ 24॥

भक्ति-प्रह्वमहेन्द्र - पूजित - पद ! त्वत्कीर्तने न क्षमा:
सूक्ष्म - ज्ञान - दृशोऽपि संयमभृत: के हन्त मन्दा वयम्।
अस्माभि: स्तवन - च्छलेन तु परस्त्वय्यादरस्तन्यते
स्वात्माधीन-सुखैषिणां स खलु न: कल्याण-कल्पद्रुम:॥25॥

वादिराजमनु शाब्दिक-लोको, वादिराजमनु तार्किकसिंह:।
वादिराजमनु काव्यकृतस्ते, वादिराजमनु भव्य-सहाय:॥ 26॥



Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now