जीव अष्टकम् लिरिक्स | Jeev Ashatakam Lyrics

Jeev Ashatakam Lyrics

Jeev Ashatakam Lyrics In Hindi

अहम् अचिन्त्यः अमरः नित्यरूपः
अहम् सत्यः सत्यांशः सत्यस्वरूपः
अहम् अक्लेद्यश्च अदाह्यः अशोष्यः
अहम् कृष्णदासः अहम् कृष्णदासः ||१||

नाहं ब्रह्मा विष्णु च रुद्रः वसवः
नाहं आदित्यो मरुतः यक्षः देवः
नाहं बालः वृद्धश्च नारी पुरुषः
अहम् कृष्णदासः अहम् कृष्णदासः ||२||

अहम् अजन्मा अव्ययः मुक्त सत्यः
अहम् कूटस्थ अचल पुरुषः नित्यः
अहम् कृष्णांशः कृष्णदेवस्य अंशः
अहम् कृष्णदासः अहम् कृष्णदासः ||३||

नाहम् एतत् देहश्च न तस्य अंगः
नाहं कस्य संगश्च नाहम् असंगः
नाहं पंचप्राणः नाहं पंचकोषः
अहम् कृष्णदासः अहम् कृष्णदासः ||४||

अहम् गुणातीतः अहम् कालातीतः
अहम् आनन्द शिव स्वरूपः सत्यः
अहम् चिदानन्दः अहम् कृष्णस्य दासः
अहम् कृष्णदासः अहम् कृष्णदासः ||५||

अहम् तेन सह एकत्वं सम्बन्धम्
अहम् तेन सह सम्बन्धं पृथक्
अहम् तदभेदाभेदश्च अचिन्त्यम्
अहम् कृष्णदासः अहम् कृष्णदासः ||६||

अहम् विस्मृतवान् मम रूपः शुद्धः
अहम् माया अनले देहे आबद्धः
अहम् शतशतः आशया निबद्धः
अहम् कृष्णदासः अहम् कृष्णदासः ||७||

अहम् कृष्णदासः अहम् कृष्णदासः
अहम् कृष्णदासः अहम् कृष्णदासः
अहम् कृष्णदासः अहम् कृष्णदासः
अहम् कृष्णदासः अहम् कृष्णदासः ||८||

|| इति श्री कृष्णदास विरचित जीव अष्टकम् सम्पूर्णम् ||

Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now