वीतरागम् स्तोत्र लिरिक्स | Veetragam Stotra Lyrics

Veetragam Stotra Lyrics

Namo Veetaragam Lyrics

शिवं शुद्धबुद्धं परं विश्वनाथं,
न देवो न बंधुर्न कर्मा न कर्ता।
न अङ्गं न सङ्गं न स्वेच्छा न कायं,
चिदानन्दरूपं नमो वीतरागम्॥ १॥

न बन्धो न मोक्षो न रागादिदोष:,
न योगं न भोगं न व्याधिर्न शोक:।
न कोपं न मानं न माया न लोभं,
चिदानन्दरूपं नमो वीतरागम्॥ २॥

न हस्तौ न पादौ न घ्राणं न जिह्वा,
न चक्षुर्न कर्ण न वक्त्रं न निद्रा।
न स्वामी न भृत्यो न देवो न मत्र्य:,
चिदानन्दरूपं नमो वीतरागम्॥ ३॥

न जन्म न मृत्यु: न मोहं न चिंता,
न क्षुद्रो न भीतो न काश्र्यं न तन्द्रा ।
न स्वेदं न खेदं न वर्णं न मुद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ४॥

त्रिदण्डे त्रिखण्डे हरे विश्वनाथं,
हृषी-केशविध्वस्त-कर्मादिजालम् ।
न पुण्यं न पापं न चाक्षादि-गात्रं,
चिदानन्दरूपं नमो वीतरागम् ॥ ५॥

न बालो न वृद्धो न तुच्छो न मूढो,
न स्वेदं न भेदं न मूर्तिर्न स्नेह: ।
न कृष्णं न शुक्लं न मोहं न तंद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ६॥

न आद्यं न मध्यं न अन्तं न चान्यत्,
न द्रव्यं न क्षेत्रं न कालो न भाव: ।
न शिष्यो गुरुर्नापि हीनं न दीनं,
चिदानन्दरूपं नमो वीतरागम् ॥ ७॥

इदं ज्ञानरूपं स्वयं तत्त्ववेदी,
न पूर्णं न शून्यं न चैत्यस्वरूपम् ।
न चान्यो न भिन्नं न परमार्थमेकं,
चिदानन्दरूपं नमो वीतरागम् ॥ ८॥

आत्माराम - गुणाकरं गुणनिधिं, चैतन्यरत्नाकरं,
सर्वे भूतगता-गते सुखदुखे, ज्ञाते त्वयि सर्वगे,
त्रैलोक्याधिपते स्वयं स्वमनसा, ध्यायन्ति योगीश्वरा:,
वंदे तं हरिवंशहर्ष-हृदयं, श्रीमान् हृदाभ्युद्यताम् ॥ ९॥



Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now