भावना द्वात्रिंशतिका लिरिक्स | Bhavna Dwatrinshatik Lyrics

Bhavna Dwatrinshatik Lyrics

Samayik Paath Lyrics

सत्त्वेषु मैत्रीं गुणिषु प्रमोदं, क्लिष्टेषु जीवेषु कृपा-परत्वम्‌।
माध्यस्थभावं विपरीतवृत्तौ,सदा ममात्मा विदधातु देव ॥1॥

शरीरत: कर्त्तुमनन्त-शक्ति, विभिन्‍नमात्मानमपास्त-दोषम्‌।
जिनेन्द्र! कोषादिव खड़्ग-यष्टिं,तव प्रसादेन ममाऽस्तु शक्ति: ॥2॥

दुःखे सुखे वैरिणि बन्धुवर्गं, योगे वियोगे भवने वने वा।
निराकृताशेष-ममत्वबुद्धे: समं मनोमेऽस्तु सदाऽपि नाथ ! ॥3॥

मुनीश!लीनाविव कीलिताविव, स्थिरौ निखाताविव बिम्बिताविव।
पादौ त्वदीयौ मम तिष्ठतां सदा, तमोधुनानौ हृदि दीपकाविव ॥4॥

एकेन्द्रियाद्या यदि देव! देहिन:, प्रमादत: संचरता इतस्तत:।
क्षता विभिनना मिलिता निपीडितास्‌, तदस्तु मिथ्या दुरनुष्ठितं तदा ॥5॥

विमुक्तिमार्ग-प्रतिकूलवर्तिना, मया कषायाक्षवशेन दुर्धिया।
चारित्रशुद्धेर्यदकारि लोपनं, तदस्तु मिथ्या मम दुष्कृतं प्रभो! ॥6॥

विनिन्दनाऽऽलोचन-गर्हणैरहं, मनोवचःकायकषाय-निर्मितम्‌।
निहन्मि पापं भवदुःखकारणं, भिषग्विषं मन्त्रगुणैरिवाखिलम्‌ ॥7॥

अतिक्रमं यद्विमतेव्यरतिक्रमं, जिनातिचारं सुचरित्रकर्मणः
व्यधामनाचारमपि प्रमादत:, प्रतिक्रमं तस्य करोमि शुद्धये ॥8॥

क्षतिं मनः शुद्धि-विधेरतिक्रमं, व्यतिक्रमं शील-व्रतेर्वीलङ्घनं ।
प्रभोऽतिचारं विषयेषु वर्तनं वदन्त्यनाचारमिहातिसक्तताम्‌ ॥9॥

यदर्थमात्रा-पदवाक्यहीनं, मया प्रमादाद्यदि किञ्चनोक्तम्‌।
तन्मे क्षमित्वा विदधातु देवी, सरस्वती केवलबोधलब्धिम्‌ ॥10॥

बोधि: समाधि: परिणामशुद्धि:, स्वात्मोपलब्धि: शिवसौख्यसिद्धि:।
चिन्तामणिं चिन्तितवस्तुदाने, त्वां वन्द्यमानस्य ममास्तु देवि! ॥11॥

यः स्मर्यते सर्वमुनीन्द्रवृन्दे, र्य: स्तुयते सर्वनरामरेन्द्रे:।
यो गीयते वेदपुराणशास्त्रैः, स देवदेवो ह्रदये ममास्तां ॥12॥

यो दर्शनज्ञानसुखस्वभाव:, समस्त संसार-विकारबाह्य:।
समाधिगम्य: परमात्मसंज्ञ:, स देवदेवो ह्रदये ममास्ताम् ॥13॥

निषूदते यो भवदुःखजालं,  निरीक्षते यो जगदन्तरालम।
योऽन्तर्गतो योगिनिरीक्षणीय:, स देवदेवो ह्रदये ममास्ताम् ॥14॥

विमुक्तिमार्गप्रतिपादको यो, यो जन्ममृत्युव्यसनातीत:।
त्रिलोकलोकी विकलोऽकलंक: स देवदेवो हृदये ममास्ताम् ‌॥15॥

क्रोडीकृताऽशेष-शरीरिवर्गा, रागादयो यस्य न सन्ति दोषा:।
निरिन्द्रियो ज्ञानमयोऽनपाय:, स देवदेवो हृदये ममास्ताम्‌ ॥16॥

यो व्यापको विश्वजनीनवृत्ते, सिद्धो विबुद्धो धुतकर्मबन्ध:।
ध्यातो धुनीते सकलं विकारं, स देवदेवो हृदये ममास्ताम् ‌॥17॥

 न स्पृश्यते कर्मकलंकदोषै यो ध्वांतसङ्घेरिव  तिग्मरशिम:।
निरंजनं नित्यमनेकमेकं, तं देवमाप्तं शरणं प्रपद्ये ॥18॥

विभासते यत्र मरीचिमाली, न विद्यमाने भुवनावभासी।
स्वात्मस्थितं बोधमयप्रकाशं, तं देवमाप्तं शरणं प्रपद्ये ॥19॥

विलोक्यमाने सति यत्र विश्व, विलोक्यते स्पष्टमिद विविक्तम्‌।
शुद्धं शिवं शान्तमनाद्यनन्तं, तं देवमाप्तं शरणं प्रपद्ये ॥20॥

येन क्षता मन्मथमानमूर्च्छा, विषादनिद्राभय-शोक-चिंता:।
क्षतोऽनलेनेव तरुप्रपञ्चस‌, तं देवमाप्तं शरणं प्रपद्ये ॥21॥

 न संस्तरोऽश्मा न तृणं न मेदिनी, विधानतो नो फलको विनिर्मित:।
यतो निरस्ताक्षकषाय-विद्विष:, सुधीभिरात्मैवसुनिर्मलो मत: ॥22॥

न संस्तरो भद्र! समाधिसाधनं, न लोकपूजा न च सङ्घमेलनम्‌।
यतस्ततोऽध्यात्मरतो भवानिशं, विमुच्य सर्वामपि बाह्यवासनाम्‌ ॥23॥
न सन्ति बाह्मा मम केचनार्था भवामि तेषां न कदाचनाहम्‌।
इत्थं विनिश्चित्य विषुच्य बाह्यं, स्वस्थ: सदा त्वं भव भद्र! मुक्तयै ॥24॥

आत्मानमात्मन्यवलोक मानस्‌ त्वं दर्शनज्ञानययों विशुद्ध:।
एकाग्रचित्त: खलु यत्र तत्र, स्थितोऽपि साधुर्लभते समाधिम्‌ ॥25॥

एक: सदा शाश्वतिको ममात्मा, विनिर्मल: साधिगमस्वभाव:।
बहिर्भवा: सन्त्यपरे समस्ता, नशाश्वता: कर्मभवा: स्वकीया: ॥26॥

यस्यास्ति नेक्यम वपुषापि सार्द्धं, तस्यास्ति किं पुत्र-कलत्र-मित्रे:।
पृथक्कृते चर्मणि रोमकूपा:, कुतो हि तिष्ठन्ति शरीरमध्ये ॥27॥

संयोगतो दुःखमनेकभेदं, यतोऽशनुते जन्मवने शरीरी।
तत्स्त्रीधासौ परिवर्जनीयो, यियासुना निर्वृत्तमात्मनीनाम्‌ ॥28॥

सर्व निराकृत्य विकल्प-जालं, संसार-कान्तार निपातहेतुम्‌।
विविक्तमात्मानमवेक्षय-माणो, निलीयसे त्वं परमात्मतत्वे ॥29॥

स्वयं कृतं कर्म यदात्मना पुरा, फल तदीयं लभते शुभाशुभम।
परेण दत्तं यदि लभ्यते स्फुटं, स्वयं कृतं कर्म निरर्थकं तदा ॥30॥

निजार्जितं कर्म विहाय देहिनो, न कोऽपि कस्यापि ददाति किञ्चन।
विचारयन्नेव-मनन्यमानस:, परो ददातीति विमुञ्च शेमुषीम्‌ ॥31॥

येः परमात्माऽमितगतिवन्ध:, सर्वविविक्तो भृशमनवद्य:।
शश्वदधीतो मनसि लभन्ते, मुक्तिनिकेतं विभववरं ते ॥32॥

इति द्वात्रिंशतावृत्तै:, परमात्मानमीक्षते।
योऽनन्यगत-चेतस्को, यात्यसौ पदमव्ययम्‌॥



Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now