अद्याष्टक स्तोत्र लिरिक्स | Adyashtakam Stotra Lyrics

Adyashtak Stotra Lyrics

Jain Adhyastak Stotram Lyrics

अद्य मे सफलं जन्म, नेत्रे च सफले मम।
त्वामद्राक्षं यतो देव, हेतुमक्षयसम्पदः ॥1॥

अद्य संसार-गम्भीर,पारावारः सुदुस्तरः।
सुतरोऽयं क्षणेनैव जिनेन्द्र ! तव दर्शनात् ॥2॥

अद्य मे क्षालितं गात्रं, नेत्रे च विमले कृते।
स्नातोऽहं धर्म-तीर्थेषु जिनेन्द्र ! तव दर्शनात् ॥3॥

अद्य मे सफलं जन्म, प्रशस्तं सर्वमंगलम्।
संसारार्णव-तीर्णोऽहं जिनेन्द्र ! तव दर्शनात् ॥4॥

अद्य कर्माष्टक-ज्वालं, विधूतं सकषायकम्।
दुर्गतेर्विनिवृत्तोऽहं जिनेन्द्र ! तव दर्शनात् ॥5॥

अद्य सौम्या ग्रहाः सर्वे, शुभाश्चैकादश-स्थिताः।
नष्टानि विघ्न-जालानि जिनेन्द्र ! तव दर्शनात् ॥6॥

अद्य नष्टो महाबन्धः, कर्मणां दुःखदायकः।
सुख-सङ्गं समापन्नो जिनेन्द्र ! तव दर्शनात् ॥7॥

अद्य कर्माष्टकं नष्टं, दुःखोत्पादन-कारकम्।
सुखाम्भोधि-निमग्नोऽहं जिनेन्द्र ! तव दर्शनात् ॥8॥

अद्य मिथ्यान्धकारस्य, हन्ता ज्ञान-दिवाकरः।
उदितो मच्छरीरेऽस्मिन् जिनेन्द्र ! तव दर्शनात् ॥9॥

अद्याहं सुकृतीभूतो, निर्धूताशेषकल्मषः।
भुवन-त्रय-पूज्योऽहं जिनेन्द्र ! तव दर्शनात् ॥10॥

 अद्याष्टकं पठेद्यस्तु, गुणानन्दित-मानसः।
तस्य सर्वार्थसंसिद्धिर्जिनेन्द्र ! तव दर्शनात् ॥11॥

इति अद्याष्टक



Next Post Previous Post
No Comment
Add Comment
comment url
WhatsApp Channel  Join Now
ये WhatsApp और Teligram चैनल Bhakti Bhajan Hindi Lyrics Website के Official चैनल हैं कृपया इन्हे Join करे🙏🏻
Telegram Channel  Join Now